(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

सभापर्व ~ महाभारत | Mahabharat Sabha Parv In Hindi


॥ श्रीः ॥
2.54. अध्यायः 054
Mahabharata - Sabha Parva - Chapter Topics
रामकृष्णयोः विद्याभ्यासार्थं सान्दीर्पिन्याचार्यसमीपगमनम्॥ 1॥ सान्दीपिनिना गुरुदक्षिणात्वेन मृतपुत्रानयनं चोदितेन कृष्णेन स्वेनोज्जीवि तस्य पुत्रस्य समर्पणम्॥2॥ कंसपराक्रमादिवर्णनम्॥ 3॥ कृष्णेन जरासन्धपराजयः॥ 4॥
Mahabharata - Sabha Parva - Chapter Text

भीष्म उवाच॥

ततस्तौ जग्मतुस्तत्र गुरुं सान्दीपिनिं पुनः।
गुरुशुश्रूषणायुक्तौ धर्मज्ञौ धर्मचारिणौ॥ 2-54-1(13467)
व्रतमुग्रं महात्मानौ विचरन्ताववन्तिषु।
अहोरात्रैश्चतुष्पष्ट्या साङ्गान्वेदानवापतुः॥ 2-54-2(13468)
लेख्यं च गणितं चोभौ प्राप्नुतां यदुनन्दनौ।
गान्धर्ववेदं वैद्यं च सकलं समावापतुः॥ 2-54-3(13469)
हस्तिशिक्षामश्विशिक्षां द्वादशाहेन चाप्नुताम्।
तावुभौ जग्मतुर्वीरौ गुरुं सान्दीपिनिं पुनः॥ 2-54-4(13470)
धनुर्वेदचिकीर्षार्थं धर्मज्ञौ धर्मचारिणौ।
ताविष्वासवराचार्यमभिगम्य प्रणम्य च॥ 2-54-5(13471)
तेन वै सत्कृतौ राजंश्चरन्तौ ताववन्तिषु।
पञ्चाशद्भिरहोरात्रैर्दशाङ्गं सुप्रतिष्ठितम्॥ 2-54-6(13472)
सरहस्यं धनुर्वेदं सकलं ताववापतुः।
दृष्ट्वा कृतार्थो विप्रेन्द्रो गुर्वर्थे तावचोदयत्॥ 2-54-7(13473)
अयाचतार्थं गोविन्दं तदा सान्दीपिनिर्विभुम्।
मम पुत्रः समुद्रेऽस्मिंस्तिमिना चापवाहितः॥ 2-54-8(13474)
पुत्रमानय भद्रं ते भक्षितं तिमिना मम।
आर्ताय गुरवे तत्र प्रतिशुश्राव दुष्करम्॥ 2-54-9(13475)
अशक्यं सर्वभूतेषु कर्तुमन्येन केनचित्।
यश्च सान्दीपिनेः पुत्रं जहार भरतर्षभ॥ 2-54-10(13476)
सोऽसुरः समरे ताभ्यां समुद्रे विनिपातितः।
ततः सान्दीपिनेः पुत्रः प्रसादादमितौजसः॥ 2-54-11(13477)
दीर्घकालं कृतः प्रेतः पुनरासीच्छरीरवान्।
तदशक्यमचिन्त्यं च दृष्ट्वा सुमहदद्भुतम्॥ 2-54-12(13478)
सर्वेषामेव भूतानां विस्मयः समजायत।
आसनानि च सर्वाणि गवाश्वं च धनादिकम्॥ 2-54-13(13479)
सर्वं तदुपजहाते गुरवे रामकेशवौ।
गदापरिघयुद्धे च सर्वास्त्रेषु च केशवः॥ 2-54-14(13480)
परमां मुख्यतां प्राप्तः सर्वलोकेषु विश्रुतः।
कश्च नारायणादन्यः सर्वरत्नविभूषितम्॥ 2-54-15(13481)
रथमादित्यसङ्काशमातिष्ठेत शचीपतेः।
कस्य चाप्रतिमो यन्ता वज्रपाणेः प्रियः सखा॥ 2-54-16(13482)
मातलिः सङ्गृहीता स्यादन्यत्र पुरुषोत्तमात्।
भोजराजात्मजो वापि कंसस्तात युधिष्ठिर॥ 2-54-17(13483)
अस्त्रजाते बले वीर्ये कार्तवीर्यसमोऽभवत्।
तस्य भोजपतेः पुत्राद्भोजराजन्यवर्धनात्॥ 2-54-18(13484)
उद्विजन्ते स्म राजानः सुपर्णादिव पन्नगाः।
चित्रकार्मुकनिस्त्रिंशविमलप्रासयोधिनः॥ 2-54-19(13485)
शतं शतसहस्राणि पादातास्तस्य भारत।
अष्टौ शतसहस्राणि शूराणामनिवर्तिनाम्॥ 2-54-20(13486)
अभवन्भोजराजस्य जाम्बूनदमया ध्वजाः।
रुक्मकाञ्चनकक्ष्यास्तु रथास्तस्य युधिष्ठि॥ 2-54-21(13487)
अभवन्भोजपुत्रस्य द्विपास्तावद्धि तद्बलम्।
चित्रकार्मुकनिस्त्रिंशविमलप्रासयोधिनाम्॥ 2-54-22(13488)
षोडशाश्वसहस्राणि किंशुकाभानि तस्य वै।
अपरस्तु महाव्यूहः किशोरणां युधिष्ठिर॥ 2-54-23(13489)
आरोहवरसम्पन्नो दुर्धर्षः केनचिद्बलान्।
स च षोडशसाहस्रः कंसभ्रातृपुरः सरः॥ 2-54-24(13490)
सुनामा सर्वतस्त्वेनं स कंसं पर्यपालयत्।
सगणो मिश्रको नाम षष्टिमसाहस्र उच्यते॥ 2-54-25(13491)
कंसरोषमहावेगां वैवस्वतवशानुगाम्॥
मत्तद्विपमहाग्राहां वैवस्वतवशानुगाम्॥ 2-54-26(13492)
शस्रजालमहाफेनां सादिवेगमहाजलाम्।
गदापरिघपाठीनां नानाकवचशैवलाम्॥ 2-54-27(13493)
रथनागमहावर्तां नानारुधिरकर्दमाम्।
चित्रकार्मुककल्लोलां रथाश्वकलिलह्रदाम्॥ 2-54-28(13494)
महामृधनदीं घोरां योधावर्तननिस्वनाम्।
कोऽन्यो नारायणादेत्य कंसहन्ता युधिष्ठिर॥ 2-54-29(13495)
एष शक्ररथे तिष्ठंस्तान्यनीकानि भारत।
व्यधमद्भोजपुत्रस्य महाभ्राणीव मारुतः॥ 2-54-30(13496)
तं सभास्थं सहामात्यं हत्वा कंसं सहान्वयम्।
आनयामास मानार्हां देवकीं समुहृद्गणाम्॥ 2-54-31(13497)
यशोदां रोहिणीं चैव अभिवाद्य पुनः पुनः।
उग्रसेनं च राजानमभिषिच्य जनार्दनः॥ 2-54-32(13498)
अर्चितो यदुमुख्यैश्च भगवान्वासवानुजः।
ततः पार्थिवमायान्तं सहितं सर्वराजभिः।
सरस्वत्यां जरासन्धमजयत्पुरुषोत्तमः॥ ॥ 2-54-33(13499)

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि चतुः पञ्चाशोऽध्यायः॥ 54॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.